वांछित मन्त्र चुनें

विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥

अंग्रेज़ी लिप्यंतरण

viśvasya hi preṣito rakṣasi vratam aheḻayann uccarasi svadhā anu | yad adya tvā sūryopabravāmahai taṁ no devā anu maṁsīrata kratum ||

पद पाठ

विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ । यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥ १०.३७.५

ऋग्वेद » मण्डल:10» सूक्त:37» मन्त्र:5 | अष्टक:7» अध्याय:8» वर्ग:12» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) हे जगत्प्रकाशक परमात्मन् ! (प्रेषितः) तू प्रार्थना द्वारा प्रेरित हुआ (विश्वस्य हि व्रतं रक्षसि) सब प्रत्येक मनुष्य के निष्पक्ष संकल्प-अभीष्ट को रखता है देने के लिये (स्वधाः-अनु) सर्वधारणाओं-स्वरूपशक्तियों के अनुसार (अहेळयन्-उच्चरसि) न क्रोध करते हुए, प्रिय बनाते हुए को उन्नत करता है (यत्-अद्य त्वा-उप ब्रवामहै) जब इस जीवन में प्रतिदिन तुझे चाहते हैं (नः क्रतुम्-अनु देवाः मंसीरत) हमारे उस संकल्प का विद्वान् जन अनुमोदन करते हैं ॥५॥
भावार्थभाषाः - प्रार्थना द्वारा प्रेरित हुआ परमात्मा शुभ कर्मकर्त्ता मनुष्य के शुभ संकल्प को पूरा करता है। ऐसे मनुष्य के शुभ संकल्प का विद्वान् जन अनुमोदन किया करते हैं।
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) हे जगत्प्रकाशक परमात्मन् ! (प्रेषितः) प्रार्थनया प्रेरितस्त्वम् (विश्वस्य हि व्रतं रक्षसि) सर्वस्य जनस्य निष्पक्षं व्रतं सङ्कल्पितमभीष्टं रक्षसि तद्दानायेति (स्वधाः-अनु-अहेळयन्-उत्-चरसि) स्वधारणाः स्वरूपशक्तीरनुसृत्य अक्रुध्यन्-प्रियं कुर्वन्नुन्नयसि (यत्-अद्य त्वा उप ब्रवामहे) यदास्मिन् जीवने प्रत्यहं त्वां प्रार्थयामहे-याचामहे (नः क्रतुम् अनु देवाः-मंसीरत) अस्माकं तं सङ्कल्पं देवा विद्वांसोऽनुमोदन्ते ॥५॥